________________
त्रिष्वेकमुत्तरम्। क्रमेण त्रयाणां व्याख्या:- 'मम प्रेम क्व' ?' इति हरिः पृच्छति- ई-लक्ष्मीः, तस्यां यां लक्ष्म्यां हे अ! विष्णो!
श्रीराह- अहं प्रियं प्रति प्रेम्णा किं कुर्याम्? हे इ! हे लक्ष्मि! त्वं अम गच्छ, ततः सन्धियोगे 'यम' इति।
अहो गुणाः! यूयं गुणिन्याश्रये किं कुरुत? वयं माम सम्पूर्णाः तिष्ठाम। मा माने [सार.अ.प.पृ.२७१]; [पाणि. धातु. ११३८] आशी:प्रेरणयोरामपि 'माम' इति रूपम्।
अहम् अर्घ्यं पूज्यं किं कुर्वे? उत्तरम्- त्वं नम नमस्कुरु।
सीरायुधः बलभद्र आह– उद्गाता सामवेदवित् किं प्रगायति पापठीति?- साम सामवेदं हे राम! हे बलदेव!
'प्रेयसः-पत्युः प्रणयास्पदं-प्रेमस्थानं प्रेयःप्रणयास्पदं किम्?' इति स्मरभव आमयश्च पर्यन्वयुक्त पप्रच्छ-दं कलत्रम्, ए:-कामस्य अपत्यम् अः, अपत्ये अणि, इवणेत्यादिना इलोपे प्रत्ययमात्रावस्थाने, तत्सम्बोधनम् हे अ! कामसुत! तथा हे अम (हेऽम)! रोग!॥ इत्यनुलोममञ्जरी ।। १४९ ॥
हे विकरुण! निर्दय! त्वं भण - केन का किमाधेया किं कर्त्तव्या? उत्तरं निर्दयो वक्ति- मया हेया त्याज्या दया करुणा। .
तथा अयं जनः केन रज्यते? राया द्रव्येण।
का वणिज्या न कार्या? सह आयेन-लाभेन वर्त्तते या सा साया न या वणिज्या।
का धर्मे नेष्यते? माया निकृतिः।
हरिः विष्णुः कयाऽरञ्जि? यया लक्ष्म्या॥ इयमार्यागीतिः॥ विपरीतमञ्जरी ॥ १५०॥ १. 'कः' इति १। ११०
कल्पलतिकाटीकया विभूषितम्