SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ व्याक्ष्याः- लक्ष्मीपतिहृदयं विष्णुचित्तं कीदृक्षम्? सह यालक्ष्म्या वर्त्तत इति सि। 'सह ई' इति स्थिते सहस्य सभावे स अग्रे इ (ई), 'अ इ ए' [सार.सू.४३] अनेन से इति भवति। ततो नपुंसकत्वाद् ह्रस्वत्वे 'सि' इति सिद्धम्। रतिप्रीत्योः कामभार्ययोः युगं कीदृक्? सह इना-कामेन वर्त्तते इति सि। अत्रापि ह्रस्वत्वं प्राग्वत्। शैवैः कः स्तूयते? उः शङ्करः। 'कस्य धातोः अच् च हल्च् अज्झलौ स्वरव्यञ्जनरूपे गुणवृद्धी स्याताम्?' इति प्रश्ने उत्तरम्- उ: ऋकारस्य अर्-आर्लक्षणे गुणवृद्धी भवतः। 'ऋ' इत्यस्य षष्ठी ड्सि परे ऋतो ङउः [सार.सू.१७१] अनेन 'उः' इति सिद्ध्यति॥ द्विर्गतजातिविशेषः ॥ १४८ ॥ कुत्र प्रेम ममेति पृच्छति हरिः श्रीराह कुर्यां प्रियं, किं प्रेम्णाहमहो गुणाः! कुरुत किं यूयं गुणिन्याश्रये ?। किं कुर्वेऽय॑महं ? प्रगायति किमुद्गाताह सीरायुधः, किं प्रेयःप्रणयास्पदं? स्मरभवः पर्यन्वयुक्तामयः॥१४९॥ ॥यायमानसारादहेम ॥ मञ्जरीसनाथजातिः॥ विकरुण! भण केन किमाधेया का? रज्यते च केन जनोऽयम् ?। कार्या न का वणिज्या? का धर्मेनेष्यते? कयाऽरञ्जि हरिः?॥१५०॥ . ॥यायमानसारादहेम ॥ विपरीतमञ्जरीसनाथजातिः॥ काः कीदृशी: कुरुध्वे किं सन्तोषाग्निनर्षयो यूयम् ?। किमहं करवै मदन-भयविधुरितः कान् कया कथय?॥१५१॥ ॥ यायमानसारादहेम॥ गतागतः॥ १. 'च' इति मु. प्रतौ। प्रश्रोत्तरैकषष्टिशतकाव्यम् १०९
SR No.002344
Book TitlePrashnottaraikshashti Shatkkavyam
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Somchandrasuri, Vinaysagar
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages186
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy