________________
I
| ता म | स | ह सा
ताम (
सहसा
किमभिदधौ करभोळं सततगतिं किल पातः स्थिराकर्तुम् ?। जननी पृच्छति विकचे कस्मिन्सन्तुष्यति' भ्रमरः ?॥ १४६॥
॥मातरम्भोरुहे॥ द्विर्गतः॥ व्याख्याः- पतिः सततगतिं करभोळं निजप्रियां स्थिरीकर्तुं किम् अभिदधौ उवाच? मा अत मा सततं गच्छ हे रम्भोरु!, रम्भावत्- कदलीवदूरू यस्याः सा रम्भोरू:, तदामन्त्रणम्- हे रम्भोरु !
पक्षे, जननी पृच्छति- 'कस्मिन् विकचे विकस्वरे भ्रमरः सन्तुष्यति? हे मातः! जननि! अम्भोरुहे कमले॥ द्विर्गतजाति: ॥ १४६ ॥ प्राधान्यं धान्यभेदे व ? कथयति चयः कीदृशी वायुपत्नी?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति ? प्राह तत्स्तोत्रजीवी। ब्रूहि ब्रह्मस्वरं च क्षितकमभिगदाऽथोल्लसल्लीलमञ्जूल्लापामामन्त्रय स्त्री व सजति न जन: ? प्राह कोऽप्यम्बुपक्षी॥१४७॥ ॥ कलमे, मेलक!, करता, तारक!, कवसे, सेवक!, कराव, वराक!,
कलरवारामे!, तासे व( ब )क॥ पद्मान्तरजातिः॥ व्याख्या:- चयः कथयति- व धान्यभेदे प्राधान्यम्? कलमे शालिविशेषे हे मेलक! चय!
१. २.
'सन्तुष्यते' इति मु. प्रतौ। 'द्विर्गतजाति: ' इति न ३ । "क्षितकमभिगद प्रोल्लसल्लीलमञ्जू.' इति २।
प्रश्रोत्तरैकषष्टिशतकाव्यम्
१०७