________________
शीघ्र निस्तीर्णः? हे बाल! मूढ ! जवोऽस्यास्तीति जवनः, लोमपामादिभ्यो मत्वर्थीयो नः। जवनश्चाऽसौ पोतश्च जवनपोतः, तस्मिन् जवनपोते, वेगवद्वाह नारूढ़ : समुद्रः शीघ्रं तीर्यत इत्यर्थ :॥ गतप्रत्यागतजातिः ॥ १४४॥ ध्वान्तं ब्रूतेऽर्हतां का तृणमणिसु? खगः कश्चिदाख्याति केन, प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो! दुर्बलः केन पुष्येत् ?। कामधुग्वक्ति कात्र प्रजनयति शुनो? युद्धहृत्पूर्वलक्ष्मीसत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदास्वादनीयः?॥१४५॥ ॥ तामस! समता! सारस! सरसा! साहस! सहसा! मारस! सरमा!
समरहर! ता सा सा मास॥ पद्मान्तरजातिः॥ व्याख्याः- ध्वान्तं ब्रूते- अर्हतां तृणमणिषु का? हे तामस! अन्धकार! समता समभावः।
कश्चित् खगः पक्षी वक्ति- मे मम प्रीतिः केन क्रियते? हे सारस! सरसा सरोवरेण।
अथ प्रसभकृतं कर्म वक्ति- अहो लोकाः! दुर्बलः केन पुष्येत्? हे साहस! अपर्यालोचितकर्मन्! सहसा बलेन।
कामाय द्रुह्यतीति कामधुक् स्मरद्रोही वक्ति- का शुनः प्रजनयति? मारं स्यति-अन्तं नयन्तीति मारसः, तत्सम्बोधनम्- हे मारस! सरमा शुनी।
पूर्वलक्ष्म्याः सत्तायां सन्दिग्धा बुद्धिर्यस्य सः पूर्वलक्ष्मी सत्तासन्दिग्धबुद्धिः, एवंविधो युद्धहत् कृतिभिः-पण्डितैः कथमाश्वासनीयः? हे समरहर! युद्धहृत् ! सा. सा सैव ता लक्ष्मी: मा माम् आस चिक्षेप॥ पद्मान्तरजातिरियम् ॥ १४५ ॥ १. 'गतप्रत्यागतजातिः' इति न ३। २. 'पद्मान्तरजातिरियम्' इति न ३ । १०६
कल्पलतिकाटीकया विभूषितम्