________________
त्रिष्वेकमुत्तरम् । क्रमेण त्रयाणामपि व्याख्या - का स्त्री कीदृशेन स्वपतिना स्वभर्त्रा ताम्यति खेदं करोति ? मता अभिमता याता बहिर्गच्छता, यदा भर्त्ता बहिर्गच्छति तदाऽभिमता स्त्री ताम्यतीत्यर्थः ।
भक्तिमतो जनस्य किंविधा विद्या सिध्येत् ? ध्याता सती । अथ लोकविदिता का कीदृग् ? सा श्रीः अततीति अता, ' चञ्चला ' इति विदिता ।
अम्बा का ? माता जननी ।
किम्भूतेन धनेन धनवान् भवेत् ? सता विद्यमानेन ।
साङ्ख्यैः कापिलैः पुंसा सह कीदृशी प्रकृतिरिष्यते ? युता सम्बद्धा- आत्मना सहिता ।
कीदृशा वसन्तमरुता वसन्तवायुना उत्कण्ठा भवेत् ? वाता प्रसरता ॥ इत्यनुलोममञ्जरी ॥ १४० ॥
. गदः रोगो निगदति - विष्णोः का इष्टा ? ता लक्ष्मी: हे अम!
रोग !
तथा 'सव्यं दक्षिणे वामे च प्रतिकूले च' [ अनेकार्थसंग्रह २/३८९] इत्यनेकार्थोक्तेः सव्यादितरः सव्येतरोऽत्र वामः प्राहश्रीरुद्राण्योः समाहारसम्बोधनं किम् ? तत्कथय - हे वाम ! सव्येतर ! अथवा सव्येतरः-दक्षिणः, तत्र अकारप्रश्लेषेण व्याख्या - हेऽवाम ! ई च उमा च युमम्, तत्सम्बोधनम् - हे युम !
ऋजुः प्राह- अनुरक्ता कान्ता जिगमिषुं गन्तुमिच्छुम् इनं पतिं प्रति किं वक्ति ? हे सम! ऋजो ! माऽम मा गच्छ ।
सान्त्वं धूमं प्रहरं च अनुक्रमेण सम्बोधय - हे साम ! समते, हे ध्याम ! हे धूम्र !, हे याम ! प्रहर ! इति विपरीतमञ्जरी ॥ १४१ ॥ प्रश्नोत्तरैकषष्टिशतकाव्यम्
१०३