________________
हे नृपते! त्वं भण- 'केन कीदृशेन क; नयेन करणभूतेन भुवि का किं चक्रे?' इति प्रश्ने नृप उत्तरयति- मयाऽध्यासामासयुवाता। अयमर्थः- मया उवा-रक्षकेण ता- राज्यादिलक्ष्मी: अध्यासामासेअधिष्ठिता। अवतीति क्विपि ऊः, ततस्तृतीयैकवचने ‘उवा' इति भवति।
अथ प्रत्यागतपक्षे, तरलतरः पृच्छति- के यूयं सततं काः किं कुरुत? उत्तरम्- हे वायुसम! अतिचपल! असा: अलक्ष्मीकाः वयं ताः लक्ष्मी: कर्मतापन्ना ध्यायाम चिन्तयाम॥ इति गतागतः॥ 'मयाध्यासामासयुवाता' इत्यस्मिन्नुत्तरे जातित्रयमदर्शि ॥ १४२ ।।
लोके केन किलाऽऽपि कान्तकविता? कीदृग् महावंशजश्रेणिः? श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः। हे दुष्प्रव्रजितप्रदानक! कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद॥ १४३॥ ॥ कालिदासकविना, नाविकसदालिका, तामरसविदम!, मदविसरमता,
सरक! विदामविदलिता नाम का?॥ मन्थानान्तरजातिः॥ व्याख्याः- लोके शिवशासने कान्तकविता मनोज्ञकाव्यकरणप्रावीण्यं केन आपि प्राप्ता? कालिदासकविना कालिदासाभिधपण्डितेन।
___महावंशजश्रेणिः कुलीनजनश्रेणिः कीदृशी? नौति-परगुणान् स्तौतीति नाविका-स्ताविका सदालि:-सत्श्रेणिर्यस्यां सा नाविकसदालिका, भावे कम्। अथवा न-नैव अविकसन्ती- अवृद्धिमती आलि:-परम्परा यस्याः सा नाविकसदालिका। किं तर्हि? विकसदालिका भवति।
श्रीश्च सुरश्च याज्ञिकश्च इन्द्रियजयश्च श्रीसुरयाज्ञिकेन्द्रियजयाः समाहारतो बोध्याः सम्बोधनीयाः। उत्तरम्- तामरसविदम!, ता च १०४
कल्पलतिकाटीकया विभूषितम्