________________
कस्मिन् विमले सरोजावली चकास्ति शोभते? वने पानीये॥ इयं प्रतिलोममञ्जरी ॥ १३६॥
तनुरुहरोगः पृच्छति-के वां युवां कयौं कीदृशकौ अलसौ प्रति किं कुरुथः? उत्तरम्- न इव: न गच्छावः। 'इण् गतौ' [सार.अ.प.पृ.२७६]; [पाणि. धातु. ११२०] वर्तमानोत्तमपुरुषद्विवचने 'इवः' इति रूपम्। ते लक्ष्म्यौ कत्र्यौ शयालू आलस्येन शयनशीलौ भवन्तौ कर्मतापन्नौ नाश्रयाव इत्यर्थः, लोम्नाम् अमः-रोगो लोमामः, तस्य सम्बोधनम्- हे लोमाम!
तथा कोऽपि जनो वरमाऽऽरामं छेत्तुम् अवाञ्छन् अनिच्छन् सन् केनाऽपि उक्तः भाषितः किमाह? मम अलोलूया न लवितुमिच्छा शस्ते शोभने वने ॥ इति गतागतः॥ त्रिभिर्वृत्तैरेकमेवोत्तरम्'नेवस्तेशयालूलोमाम' इति ॥ १३७॥
का कीदृक्षा जगति भविनां ? वक्ति मृत्यूग्ररोगः, शोचत्यन्तः किल विधिवशात्कीदृगत्युत्तमास्त्री ?। गम्भीराम्भःसविधजनता कीदृशी स्यात्भयार्ता ?, ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः ?॥ १३८॥ ॥ता गत्वरी मरक!, करमरीत्वगता, सारतरीपरमा, मारपरीत! रसा॥
मन्थानजातिः॥ व्याख्या:- मृत्युकारी उग्ररोगो मृत्यूग्ररोग: मारि: वक्ति- जगति भविनां प्राणिनां का कीदृक्षा? ता लक्ष्मी: गत्वरी गमनशीला हे मरक! मारे!
अत्युत्तमास्त्री कुलीनास्त्री विधिवशात् दैवयोगात् कीदृग् सती अन्तः चित्तमध्ये शोचति? उत्तरम्- करमरीत्वगता! हठेनाऽपहता स्त्री करमरी उच्यते, तद्भावं करमरीत्वं गता-प्राप्ता करमरीत्वगता- बन्दीभावं प्राप्ता शोचतीत्यर्थः। करमरीशब्दो देश्यः, यदुक्तं रत्नावल्यां देशीनाममालायां श्रीहेमचन्द्रसूरिपादैः- 'करमरी बन्दी' [२/१५ ] इति।
कल्पलतिकाटीकया विभूषितम्
१००