________________
किं कुरुथः के कीदृशकौ वामलसौ ? पृच्छति तनुरुहरोगः । छेत्तुमवाञ्छन् वरमारामं केनाप्युक्तः कोऽपि किमाह ? ॥ १३७ ॥
॥ नेवस्तेशयालूलोमाम ॥ गतागतः ॥ त्रिभिरेकमुत्तरम्। क्रमेण त्रयाणां व्याख्या- अर्धं सम्बोधयहे नेम! अर्ध !
आर्द्रभाव इत्यभिदधाति - 'अहम् अहिमांशुकरैः सूर्यकिरणैः स्वभावं किं कुर्वे?" इति प्रश्ने उत्तरदाता वक्ति — त्वं स्वभावं वम त्यज हे स्तेम! आर्द्रभाव!, तिम-ष्टिम-ष्टीम आर्द्रभावे [पाणि धातु. ११९८, ११९९, १२००], आदित्यकरैरार्द्रभावोऽपगच्छतीत्यर्थः ।
हे विद्वन् ! क्षान्तिं वद - हे राम !, प्रहरं आह्वय सम्बोधय - हे याम ! प्रहर!, पुच्छं पृच्छ— हे लूम ! पुच्छ !, तनुरुहं लोमं ब्रूयाः - हे लोम ! तथा मातुलमुदाहर- हे माम! हे मातुल ! ॥ इत्यनुलोममञ्जरी ॥ १३५ ॥
कमला आह— चाटुभिः प्रियवाक्यैः कुत्र च्युते व्यतीते सति अहं हरिभक्तिं किं कुर्याम् ? मन मन्यस्व हे इ ! लक्ष्मि ! माने अहङ्कारे गते सति ।
कीदृक्षे शुक्लशुक्लवचसी कञ्चित्खगं पक्षिविशेषं प्राहतुः ? अत्रोत्तरम् — लोने, लेन-लकारेण ऊने लोने । अयमर्थः - 'शुक्लशुक्ल' इति शब्दौ लकाररहितौ 'शुकशुक' इति खगवाचकौ भवतः ।
मोहभूरुहि कीदृशि कीदृशे सति ज्ञानं भवेत् उत्पद्यते ? लूने छिन्ने सति ।
इभ्यैः श्रीमद्भिः क्वाऽऽरुह्यते ? याने वाहने ।
अर्कस्याऽपत्यम् आर्किः शनैश्वरः पृच्छति - चुरा चौरिका क्व ? हे शने ! शनैश्चर! स्तेने चौरे ।
प्रश्रोत्तरैकषष्टिशतकाव्यम्
९९