________________
वावदूकान् । शैल:- गिरिः, अश्ववक्त्रः - किन्नरः, दहनाक्षरं -रकार:, वावदूक:- वादी, ततो द्वन्द्वे ते, तान् । किं कृत्वा ? शिखण्डिकलनादवती: मयूरमधुर्रध्वनियुक्ता वर्षा विचिन्त्य ।
तथाहि - 'कदा कस्मिन् कालेऽगः - पर्वत, मयुः-अश्ववक्त्रः, र :- दहनाक्षरं मान्त्रिकप्रसिद्धम्, गदतीति गादी - वावदूकः ततो द्वन्द्वः, तत्सम्बोधनम्- हे अगमयुरगादिनः ! के कर्त्तारः काः कर्मतापन्नाः तेनिरे विस्तारितवन्त: ?' इति प्रश्नः उत्तरम् - कं- पानीयं ददातीति कदः-मेघः, तस्यागमः, स तथा तस्मिन् कदागमे उरगान्- सर्पान् अदन्तीति उरगादिनः मयूराः केकाः मयूरध्वनीन्, ता- लक्ष्मीः, तस्या सम्बोधनम् - हे ते!- लक्ष्मि ! निर्गतः इ:- कामो यस्याऽसौ निरिः, तस्य सम्बोधनम् - हे निरे! हे निष्काम ! कदागमे घनागमे सति उरगादिनःमयूराः केका:- मयूरध्वनीन् [तेनिरे ]- विस्तारयन्ति स्मेत्यर्थः ॥ समवर्णप्रश्नोत्तरजातिः ॥ १३४॥
॥ नेवस्तेशयालूलोमाम ॥ मञ्जरीसनाथजातिः ॥
किं कुर्यां हरिभक्तिमाह कमला कुत्र च्युते चाटुभि: ?, कीदृक्षे किल शुक्लशुक्लवचसी कञ्चित्खगं प्राहतुः ? | ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?, वक्त्यार्किः क्व चुरा ? चकास्ति विमले कस्मिन् सरोजावली ? ॥ १३६ ॥
॥ नेवस्तेशयालूलोमाम ॥ विपर्यस्तमञ्जरीसनाथजातिः ॥
१.
३.
सम्बोधयार्धमहिमांशुकरैः स्वभावं, कुर्वे किमित्यभिदधाति किलार्द्रभावः । क्षान्तिं वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनुरुहमुदाहर मातुलं च ॥ १३५ ॥
९८
'मधुर' इति न २ ।
'मञ्जरीजाति:' इति २ ।
२. 'समवर्णप्रश्नोत्तरजाति:' इति न ३ । ४. 'किल शुक्लवचसी' इति न ३ |
कल्पलतिकाटीकया विभूषितम्