________________
[ ४८ ]
निरपराधान् व्यसनी, जन्तून् व्यापादयन् जनः । अवश्यं नरकं गच्छेद्, यथा कालकसूरिकः ॥ ४८ ॥
पदच्छेदः-निरपराधान् व्यसनी जन्तून् व्यापादयन् जनः अवश्यं नरकं गच्छेद् यथा कालकसूरिकः ।
अन्वयः-व्यसनी जनः निरपराधान् जन्तून् व्यापादयन् अवश्यं नरकं गच्छेद् यथा कालकसूरिकः ।
शब्दार्थः-व्यसनी व्यसनवाला मनुष्य, जनः=मानव, निरपराधान् =निर्दोष, जन्तून् =जीवों को, व्यापादयन्= मारता हुआ, अवश्यं जरूर, नरकं नरक में, गच्छेत् = जावे, यथा=जैसे, कालकसूरिकः कालकसूरिक ।
श्लोकार्थः-व्यसनी मनुष्य निर्दोष प्राणियों का वध करता हुआ अवश्य ही नरक में जाता है। जैसे कालकसूरिक नरक में गया।
संस्कृतानुवादः-व्यसनीमानवः निर्दोषान् जीवान् निघ्नन् अवश्यमेव नरकं गच्छति । यथा कालकसूरिकः प्राणिवधं कुर्वन् नरकं गतः ।। ४८ ॥