________________
[ ४३ ] वदेत् सदुपदेशं तु, चण्डस्यापि महामतिः । कदाचिदपि शान्त्यै स्याद् हरिभद्रगरणीन्द्रवत् ॥ ४३ ॥
पदच्छेदः-वदेत् सदुपदेशं तु चण्डस्य अपि महामतिः कदाचित् अपि शान्त्यै स्याद् हरिभद्रगणीन्द्रवत् ।
अन्वयः=महामतिः चण्डस्य अपि सदुपदेशं वदेत् कदाचित् हरिभद्रगणीन्द्रवत् शान्त्यै स्यात् ।
___ शब्दार्थः-महामतिः=बुद्धिमान्, चण्डस्य क्रोधी को, अपि भी, सदुपदेशं अच्छा उपदेश, वदेत् =कहें । कदाचित् कभी, हरिभद्रगरणीन्द्रवत् हरि भद्रगणीन्द्र की तरह, शान्त्यै शान्ति के लिए, स्यात् होवे ।।
श्लोकार्थः-बुद्धिमान् मनुष्य क्रोधी मनुष्य को भी सदुपदेश देवे। कदाचित् वह सदुपदेश हरिभद्रगणीन्द्र की तरह शान्ति के लिए होवे ।
संस्कृतानुवादः-प्राज्ञः चण्डस्यापि सदुपदेशं कथयेत् यतो हि कदाचिदपि सः उपदेशः हरिभद्रगणीन्द्र इव शान्त्य भूयात् ।। ४३ ।।
(
४ )