________________
[ ३४ ]
इहापि फलदायी स्या-नियमो वङ्कचूलवत् । निजसामर्थ्यतस्तस्माद्, गृह्णीयात्तं महामतिः ॥३४॥
पदच्छेदः-इह अपि फलदायी स्यात् नियमः वङ्कचूलवद् निजसामर्थ्यतः तस्मात् गृह्णीयात् तं महामतिः ।
अन्वयः-नियमः इहापि वङ्कचूलवत् फलदायी स्यात् तस्मात् महामतिः निजसामर्थ्यतः तं गृह्णीयात् ।
शब्दार्थः=नियमः नियम, व्रत, इहापि इस लोक में भी, वङ्कचूलवत् वङ्कचूल की तरह, फलदायी फल देने वाला, स्यात् होवे । तस्मात् इसलिए, महामतिः= बुद्धिमान्, निजसामर्थ्यतः-अपनी शक्ति से, तं=उस नियम को, गृह्णीयात् ग्रहण करे ।
श्लोकार्थः-ग्रहण किया गया नियम इस लोक में भी वङ्कचूल की तरह फल देने वाला होता है। अतः बुद्धिमान् अपनी शक्ति से उस नियम को ग्रहण करे ।
संस्कृतानुवादः-इह लोकेऽपि नियमः वङ्कचूल इव फलप्रदो भवति । अतः हेतोः महामतिः मानवः निजशक्त्यनुसारं तं नियमं गृह्णीयात् ।। ३४ ॥