________________
विधान प्रस्तुत किया है। श्रीजिनमूर्तिपूजा चित्ताकर्षक सरल सरस शब्द सुमन-गुच्छों से तथा भावसुमनों से तन्मय होकर अवश्य करनी चाहिए। यह जिनपूजा संसार में सभी के लिए कल्याणकारिणी है ।। ४४ ।।
[ ४५ ] - मूलश्लोकःअनाथानां नाथोऽप्यमरपतिपूज्यो जिनवरः , तपस्तप्त्वा क्षिप्त्वा भवभयकरं कर्मनिचयम् । जगद् दीपाकारं विदितभुवनं केवलमलं , समेत्यागात् क्वासौ विनयनयपूर्णां निजपुरीम् ॥ ४५ ॥
संस्कृतभावार्थः-श्रीजिनेश्वरदेवोऽनाथानां दीनानामपि नाथः स्वामी वर्तते । स जिनेश्वरः सर्वसुरासुरेन्द्रैः पूजनीयः । जिनेश्वरोऽपि पूर्वं तावत् जन्मादिग्रहणं करोति । अनादिकालतः सञ्चितं कर्मसमूहै: घोरं तपस्तप्त्वा भावपूजादिकं विधाय दूरयति । लोकालोकप्रकाशकं केवलज्ञानं समधिगम्याघातिकर्माणि समूलमुन्मूलयति तथा च अपुनरावृत्तिनियमपरिपूर्णां शिवपुरी प्राप्नोति । शिवपुरीमवाप्तये ध्यानरूपेण सोऽपि भावपूजनं विदधाति । अतः पूजा अनादि उपादेया चेति मन्यताम् ।। ४५ ।।