________________
[ ४० ] - मूलश्लोकःयथा साधोर्दानं जगति वपुषो रक्षणफलं , ततो ज्ञानं ध्यानं श्रयति तनुते धर्ममनघम् । स्वयं पुण्यं कुर्वन् विपुलमनुजः कारयति सः, ततो भक्तं पानं शिवसुखमनन्ताय शमिने ॥ ४० ॥
संस्कृतभावार्थः-सुपात्राय संयमधारिणे श्रद्धाबहुमानपूर्वकं प्रदत्तमन्नपानादिकं पूर्वं तावत् क्षुधानिवृत्तिजनकत्वात् शरीररक्षणाय कल्पते। किन्तु वृक्षमूलसिञ्चनेन यथा फल-कुसुम-छायेन्धनादीनां बहुतरा लाभा भवन्ति तथैव सुपात्रदानेनापि सम्भवन्ति विविधलाभाः । यथासंयमधारी स्वयं धर्मं धारयति, करोति च ज्ञानाभ्यास ध्यानारोपणम् । स्वयं पारङ्गतः सन् अन्यान् अपि प्रेरयति, कारयति च धर्मध्यानादिकम् । भवन्ति च सुखिनो सन्तः स्वयमाचरन्तोऽन्यानपि योजयन्तो धर्ममार्गे। अतः सुपात्रदानं मुक्त रपि संसाधकम् । नेयं अतिशयोक्तिः जैनागमाः शास्त्राणि च सुपात्रदानमहत्त्वकथानकैः समुल्लसिताः सन्ति ।
* हिन्दी अनुवाद-सुपात्र संयमधारी मुनिराज को श्रद्धापूर्वक प्रदत्त अन्न-पानादिक दान प्रथम दृष्टया क्षुधा
--- ५३ ---