________________
[ ३७ ] - मूलश्लोकःयथा भव्यं चित्रं सुभगपरिणामाय भविनाम् , भयाकारं भीति सृजति बहुधा वेपथुमपि । स्त्रियामारागारं स्मितमुखकुचैरङ्कितमिदम् , विकारं विभ्रान्ति चपयति कं नो युवजनम् ॥ ३७ ॥
संस्कृतभावार्थः-विदितचरमेतद् यत् शान्तं जडमयमपि चित्रं जनानामुत्तमपरिणामाय कल्पते । नारकिकवेदनाभिव्यञ्जकं भयानकं वा चित्रं भयाय प्रकम्पाय च कल्पते। स्त्रीणां वर्णनं मोहनृपतिचक्रीव शास्त्रेषु सन्दृब्धम् । तासां विवृताङ्गोपाङ्गानि चित्रेऽपि विलोक्य न केवलकामुकानां युवकानामपि तु तपसि लीनानामपि चित्तानि विकारपथमाप्नुवन्ति । एतेन स्फुटतामायाति विषयोऽयं यत् चित्राणामपि प्रबलः प्रभावोऽमोघ एव । सर्वैरपि लोकव्यवहारेण अनुभूयते च ।
* हिन्दी अनुवाद-सर्वविदित है कि शान्त जड़चित्र भी मनुष्यों के उत्तमपरिणाम का कारण बनता है। नरक की वेदना को अभिव्यक्त करने वाला तथा कोई भयानक चित्र भयोत्पादक कँपकँपी पैदा करने वाला होता है। स्त्रीवर्णन, शास्त्रों में मोहसम्नाट के रूप में
श्रीजिन.-४
--- ४६ ---