________________
नहीं है, अपितु विश्वव्यवहार - प्रवर्तक - श्रीआदिनाथऋषभदेव द्वारा प्रबल समर्थित है। अतएव लोकव्यवहार का अभिन्न अंग आज भी मूत्तिपूजा है ।। ३३ ।।
[ ३४ ] - मूलश्लोकःपठेत् पूर्व शास्त्रं परमपि पुनः पाठयतु वै , यजेद् देवान् द्रव्य निगमविधिना याजयतु सः । स्वयं देयं ग्राह्य विह निगदितं विश्वगुरुरणा , कथं चेयं पूजा वद किमु कुतर्केरण रचिता ॥ ३४ ।।
+ संस्कृतभावार्थः-विश्वव्यवहारप्रवर्तक स्य श्रीग्रादिनाथ-ऋषभदेवस्य व्यवहारनयो मनोर्व्यवहाराध्यायश्च परस्परं साम्यं भजतेतरम् । प्रत्येकस्य कर्तव्यव्यवहारः श्रीनागमशास्त्रादिषु नियमितः । पूर्वं स्वयं शास्त्रादीनामध्ययनं कुर्यात् । पश्चाच्चान्यैरपि कारणीयम् । शास्त्रोक्तविधिना देवानां पूजा स्वयं करणीया कारणीया चान्यैरपि । यथाशक्ति पात्रानुकूलं सादरं-बहुमानपूर्वकञ्च दानं दद्यात् । सम्मानितो भूत्वा दानं ग्राह्यम् । हे कुतर्ककण्टकाकीर्ण ! कथय कथमेषा श्रीअागमशास्त्रसम्मता विज्ञपुरुषैः प्रतिपादिता मूत्तिपूजा असम्बद्धा कुतर्करचितेति ? ।। ३४ ।।