________________
ॐ ॥ प्र श...स्तिः ॥ श्रीविक्रमे वरे वर्षे, निधिवेदनमाक्षिके । वैशाखे हि शुभे मासे, शुक्लषष्ठयां तिथौ दिने ।। १ । प्रख्याते भारते देशे, राजस्थाने हि प्रान्तके । मरुधरे प्रदेशे . वै, मेडतानगरे वरे ।। २ ।। जीर्णोद्धारकृते प्राच्य - शान्तिनाथ जिनालये। श्रीअञ्जनशलाकायाः, पञ्चकल्याणकोत्सवे ।। ३ ।। पार्श्वनाथजिनेन्द्राणां, प्राच्य-नव्य सुबिम्बयोः । श्रीगौतमादि मूर्तीणां, प्रतिष्ठायाः शुभोत्सवे ।। ४ ।। आदिनाथस्य चत्येऽपि, प्राच्यपरिकरस्य वै। श्रीआदि-पार्श्वबिम्बानां, प्रतिष्ठायाः महोत्सवे ॥ ५ ॥ श्रीमानन्दघनस्याऽपि, पुण्यस्मृतिसुमन्दिरे । प्रानन्दघनमूर्तेश्च, प्रतिष्ठायाः वरोत्सवे ॥ ६ ।। पूज्यानां गुरुदेवानां, सूरीशानां महीतले । नेमि-लावण्य-दक्षारणां, सुशीलसूरिणा मया ।। ७ ।। श्रीजिनमूत्तिपूजायाः, सार्द्धशतकनामकम् । भक्तिरूपमिदं स्तोत्रं, पूर्णकृतं सुभावतः ।। ८ ।। एतच्च शतकं सार्द्ध, प्रमाणशतशोधितम् । निजबुद्धया मयाऽकारि, पठ्यताञ्च सुधीश्वरैः ॥ ६ ॥ समस्तसिद्धि सुवृद्धिञ्च, सर्वदुःखविनाशनम् । प्राप्नोति पुरुषो भक्त्या, जिनपादाब्ज सेवया ।। १० ।। अस्य स्तोत्रस्य नित्यं वै, स्मरणान्मननात् तथा । प्राप्नोति पुरुषः सद्यः, सुशीलपदमव्ययम् ॥ ११ ।।
॥ श्रीरस्तु ॥ शुभं भवतु श्रीसङ्घस्य ।