________________
हो गया। सफल एवं सिद्ध वैद्यों तथा चिकित्सकों के सफल रहने वाले उपचार भी व्यर्थ होने लगे। उसकी शरीरकान्ति विरूप तथा क्षीण हो गयी। वस्तुतः यह ठीक ही कहा गया है कि भाग्य विपरीत होने पर न जाने क्या-क्या अनिष्ट भी घटित होता है ।। १०४ ।।
[ १०५ ] - मूलश्लोकःप्रियोदारा हारा मृदितमदनाऽसौ च मदना , जिने बद्धा श्रद्धा सुरभितदिगन्ताः सुचरितैः । व्रतं यच्चाम्लाख्यं शमितभवरोगं सुविदितं , समं पत्या भक्त्या विहितविधिना सा तु विदधे ॥ १०५ ॥
संस्कृतभावार्थः-प्रियंवदा उदारहृदया मनोहारिणी काममानमर्दिनी भगवति श्रीजिनेश्वर देवे बद्धा श्रद्धा शीलसदाचारैः सुरभितदिशा मदना-मयणासुन्दरी नाम्नी तस्य श्रीपालस्य धर्मपत्नी आसीत् । सा अवन्तिपतिश्रीप्रजापालभूपस्य धर्मपत्न्याः श्रीरूपसुन्दर्याः पुत्री आसीत् । सश्रद्धया भक्त्या पत्या सह तया भवरोग-शोकसंतापनाशक विश्वविदितं श्री सिद्धचक्राराधनं प्रायम्बिलाख्यतपसा विधिपूर्वकं नवदिनपर्यन्तं कृतम् ।
-०-१३२ --