________________
[ १०१ ] - मूलश्लोकःस पूजा स्याल्लोकेऽप्यमरपतिपूज्यस्य सुगुरोः , शतं वा लक्षं वा विरचयतु बिम्बं शिवमयम् । क्रियाकाण्डं सर्व द्रुतमिह विनश्यत्यनुदिनम् , कृतं सर्व बिम्बं विफलमिह स्याच्चित्रपटवत् ॥ १०१ ॥
+ संस्कृतभावार्थः-देवराजैरादृता पूजिता चेयं श्रीजिनमत्तिपूजापद्धतिर्यदि काल्पनिकी, असत्यं वा स्यात् तदा तु अस्याः समूलोच्छेदः स्यात् । गीताकारेणापि कथितम्-'नासतो विद्यते भावो नाभावो विद्यते सतः' । अर्थात्-असतः सत्ता न भवति, यस्यात्यन्ताभावः स्यात् तस्य भावात्मकता (सत्ता) कालत्रितयेऽपि न सम्भवा । एषा श्रीजिनमूर्तिपूजा प्राचीनकाले प्रासीत्, अधुना वर्तते तथा भविष्ये भविष्यति । नो चेत् शतानि, लक्षाणि च जिनबिम्बानि शिवङ्कराणि कर्त्तव्यानि-इति शास्त्रकारैः कथमुक्तम् । पूजापद्धति-प्रचारक क्रियाकाण्डशास्त्रमपि असत्यायां श्रीजिनमूर्तिपूजायां सत्यामनुपदं विनश्येत् । एवं चेत् सर्वापि मूत्तिसंरचना वृथा स्यात् ।
* हिन्दी अनुवाद-देवराज-इन्द्र आदि के द्वारा सम्मानित एवं पूजित यह श्रीजिनमूर्तिपूजापद्धति यदि
-०-१२७ ---