________________
स्याद्वादबोधिनी-७६ नैयायिकाः सामान्य-विशेषौ उभौस्तः किन्तु तौ भिन्नी समानस्य भावः सामान्यं सैव जाति:, नित्यत्वे सति अनेक समवेतत्वम् ।
मन्मते जातिनित्या समवायसम्बन्धेन अनेकेषु व्यक्तिषु सुवर्तते ।
विशिनाष्टि इति विशेषः घञ् प्रत्ययान्तः । किं तावत् तत् ? इतर व्यावर्तकत्वम् विशेषत्वम् । यथा घटत्वेन रूपेण सर्वे घटाश्च का स्तथापि-'अयं नीलो घटः, अयं रक्तः, गुणाः वैभेदकाः मताः । अपरं च विशेषा नित्यद्रव्यवृत्तयो विशेषा नित्येषु आकाशादिषु विद्यमाना भेदग्राहकाः विशेषाः भवन्ति । ते कार्यपृथिव्यतिरिक्ता न सन्ति । पृथिव्यादि चतुर्ष परमाणुः आकाशादि पञ्चसु सामान्य-विशेषौ स्वीकुर्वन्ति ते तथापि भिन्नौ इति जैना न मन्यते ।
श्रीजैनदर्शने-जैनमते सामान्येन द्वौ नयौ। भेदेन सप्तद्रव्याथिकः पर्यायाथिकः प्रथमनयजातिमाश्रित्य प्रवर्तते, द्वितीयस्तु व्यक्तिमिति । परन्तु श्रीजैनमते कोऽपि नित्यपदार्थो नास्ति । यद् उदाहरन्ति तदपि पर्यायमाश्रित्य । यथा सामान्येन सर्वे सुवर्णालङ्काराः सुवर्णं परित्यज्य न भवन्ति । सर्वत्र सुवर्णालङ्कारो