________________
स्याद्वादबोधिनी-७५
शब्दरूपेण चैकम् । ततच्छब्दरूपेणानेकम् ततोऽन्यथा एकमेव तथा चानेकमेव । अतो ये एकान्तेन प्ररूपयन्ति तेषां भ्रमात्मिका मतिः । जात्याकृतव्यक्तयः पदार्था इति भाष्यकारः । समुदितेषु तेषु पदार्थत्वं नैकेकस्मिन् । गौःस्वकीयां जातिम् प्राकृतिं कृष्णादिगुणाम् उच्चैस्त्वं लघुत्वं व्यक्ति नानात्वं विहाय नहि संचरति । सर्वं हि तत्र भासते । अतः समुदितं वस्तु अविरोधेन वसन्ति अनेके धर्माः । यत्र तद् वस्तु इति भाष्यकाराः प्राहुः ।
मोमांसकमते जातिरेव पदार्थः व्यक्तिः तासां नानात्वेन अवगमाभावः । जातिरेका तेन अवगमः सुगमः एकमेव जगत् सर्वमिति प्रतोतेः । तदा गामानय इत्यत्र रूपाकृति शून्यस्य गोत्वस्य पाननं न हि दृश्यते । अतस्तत्र गोत्वाश्रयष्यक्तौ लक्षणा क्रियते । अयमेवदोषः यत्र शक्तिस्तत्र लक्षणा तेन तन्मतं न शोभनम् ।
बौद्धास्तु व्यक्तिरेद स्वीकुर्वन्ति । ते कथयन्तिव्यक्तिरेव प्रयुज्यते न हि जातिः । तण्डुलाः पक्वा एव भुज्यन्ते न तु तण्डुलत्वम् । अतो व्यक्तिरेव पदार्थः न तु जातिः तहि तण्डुलः तण्डुलः, घटःघट इति प्रतीतिः कथं भवति.। एकाकारप्रतीतौ सदृशत्वे जातौ लक्षणा क्रियते तहि शक्तिक्षणाश्रयमेव दोषः। अतो जैनः न मन्यते ।