________________
स्याद्वादबोधिनी-७७
व्यवह्रीयते । अतः सुवर्णम्, तन्मते द्रव्यम् । द्रवति इति द्रव्यम्, तस्य लक्षणम् । न हि सर्वत्र दृशः दृश्यते । सुवर्णमपि पर्याय एव । सर्वेषां जन्यद्रव्याणां परमाणव एव मूलकारणम् । तेभ्य एव क्रमेण द्वयणुकादयो भवन्ति, तेभ्य प्रारभ्य सुमेरुपर्यन्तम् ।
श्रीजैनदर्शनमते परमाणुरपि अनित्यात् भङ्गात्, अणुरिति वचनात् । प्रात्मापि तन्मतेऽनित्यः । शरीरपरिमाणो हि प्रात्मा । न्यूनाधिकता तु दीपशिखा संचालनवत् । यदा दीपस्य शिखा उच्चैः क्रियते तदा प्रकाशो वर्द्धते। नीचैः क्रियते तदा हीयते । ये सिद्धास्तत्र भेदः काल-लिङ्ग-क्षेत्रभेदेन तेऽपि भिन्नाः । प्रतः श्रीजैनमते कथंचित् एकान्तानेकान्तत्वम् ।
श्रीजैनदर्शने-जैनमते द्रव्याथिकनयस्य त्रयो भेदाः सन्ति । तद्यथा-संग्रहः, नैगमः, व्यवहारश्चेति । संग्रहनयः सर्वान् गृह्णाति इति संग्रहः-जातिः व्यक्तिः उभयम् । नैगमनयस्तु न गमः मार्गः यस्य स इति व्युत्पत्त्या अनेकमार्गमाश्रयति । एकाकारप्रतीतो जातिवादमनुसरति । भिन्नाकारप्रतीतौ व्यक्तिवादमाश्रित्य एकात्मकम् । न हि एकेन नयेन व्यवहारः प्रचलति । व्यबहारा अनेकाः। जगत् स्वरूपं समीक्ष्य व्यवहारो विधेयः इति सर्वेषां संक्षेपेण मतम् ।