________________
स्याद्वादबोधिनी-३१ (१) सः एकः-वैशेषिकाः कथयन्ति-ईश्वरः - एकस्य ईश्वरानेकत्वस्वीकारे समानता क्रमता च न सिद्धयेत । जैनाः मान्यतैषानैकान्त सत्या। अनेक मधुमक्षिकाभिः एकस्मिन् छत्रे एकाविधमेव मधुस्थापनात् । तन्तानेकप्रयाससत्वेऽपि क्रमतैकरूपतयो विद्यमानत्वात् ।
(२) स सर्वगः-ईश्वरः सर्वव्यापी, सर्वज्ञः इति वैशेषिका प्रामनन्ति । सर्वव्यापित्वे सति प्रमेयपदार्थानां न किमपि स्थानम् । ईश्वरस्य सर्वज्ञत्वमपि केनापि प्रमाणेन नैव सिद्धयति । यतो हि स्वयं सर्वज्ञत्वाभावात् वयमीश्वरं साक्षात्कर्तुमसमर्थाः। सर्वज्ञत्वं विना जगतो वैचित्र्यं न स्याद् इति । जगद्-वैचित्र्यव्याप्तिः सर्वज्ञत्वेन सह नास्ति । अागमप्रमाणेनापि वयं सर्वज्ञं ज्ञातुमसमर्थाः । वेदागमयोः पौर्वापर्यविरोधात् ।
(३) स स्ववशः-वैशेषिकाः स्वीकुर्वन्ति – ईश्वरः स्ववशः स्वाधीनः । जैनाः कथयन्ति-ईश्वरः स्वतन्त्रश्चेत् दुःखपरिपूर्ण संसारं कथं रचयति ? अन्यथा ईश्वरः, निर्दयः क्रूरश्च स्यात् । यदि प्राणिनामदृष्टबलेन (भाग्येन) जीवाः सुखिनो दुःखिनो भवन्तीति स्वीक्रियते, तदा कर्मप्रधानसृष्टि: स्वीकार्या। ईश्वरस्य कर्तृत्वं नैव स्वीकार्यम् । आवश्यकता विरहात् ।