________________
स्याद्वादबोधिनी-३०
निन्दकान् कथं जनयेत् ? मन्दोऽपि स्वविरोधिनं न जनयति । अतो नाऽसौ सर्वज्ञः । तस्मिन्नास्ति स्ववशत्वमपि-कर्मानुरूपमेव सुख-दुःखदर्शनात् । अन्यथा तथा सति जगति विषमता न स्यात् । विषमता तु जगति सर्वत्र दृश्यते । तस्मिन् नित्यत्वमपि न घटते। कि नित्यत्वम् ? कूटस्थम् - अविचलरूपम् एकस्वरूपम् । कारि सदैव परिणतिर्दश्यते । एतावता जगतः कर्ता ईश्वरो नास्तीति प्रोक्तम् । ___ अयं भावः (१) जगतः कर्ता अस्ति (२) स एकः (३) स सर्वगः (४) स स्वतन्त्रः (५) सनित्यः, इति पञ्चानामपि खण्डनं श्रीजैनमान्यतानुसारेण क्रमशश्चेत्थम्
जगतः कर्ता-वैशेषिकाः कथयन्ति यद् यद् कार्य तत् तत् केनापि बुद्धिमत्ता कर्ताजन्यम्, यथा-गृहम् । पृथिव्यादीन्यपि कार्याणि, अतः केनापि कर्ता जन्यानि । यः खलु न कर्ताजन्यं न तत् कार्यम् । यथा-आकाशः । अत्र जैनमतम्-उक्त वैशेषिकः न समीचीनम् । . प्रत्यक्षानुमानबाधितत्वात्, पृथ्व्यादेः कर्तृत्वादर्शनात् । घटदृष्टान्तोऽपि विषमः, घटादिकं सशरादिणा क; जन्यम्, ईश्वरस्य सशरीरत्व स्वीकारे अन्योन्याश्रयदोषः स्यात् ।