________________
स्याद्वादबोधिनी-२६
न हि परमाणवोऽस्माकं नयनगोचराः । स चैकः, अनेकत्वे कार्ये वैषम्यं स्यात् । स सर्वगः सर्वज्ञः, असर्वज्ञत्वे विशाल विश्वकर्तृत्वं न घटते । स च स्ववशः स्वतन्त्रः, पराधीनत्वे स्वरुचा कार्य न जायते। स्वामिनोऽनुरूपमेव कार्य भवति । स नित्य अविनाशी; यः स्वयं नश्वरः स विश्वरचनां कत्तु कथं क्षमेत ? एतद्विशेषणविशिष्ट: कत्तमकतुम् अन्यथा कत्तु समर्थ ईश्वरोऽस्ति । तान् प्राचार्यः स्वकीयामुदारतां प्रदर्शयन्नाह-इमाः कल्पनाः कुहेवाक विडम्बनाः स्युः। हेवाका:=वृथा कल्पनाः । कुत्सिताश्च ताः हेवाकाः ता एव विडम्बनाः पराभवस्थानानि स्युः । जगति-अनुचितकल्पनाकारिणाः पराभवपदं लभन्ते । अदृष्टे वस्तुनि जलताड़नादिवत् वृथा प्रयासो न विधेय इत्याशयः ।
जगति सर्वे पदार्थः परिणमनस्वभावाः । अतः परमाणवः क्रमेण परिणमन्तो विश्वरूपं स्युः । तदर्थमीश्वरकल्पना न कार्याः जनाः मीमांसका कर्मवादिनः एवं मन्यन्ते कर्माणि एव जगद्रचयन्ति । यतः ईश्वरो न कर्ता। अनेकानि भवनानि एकरूपाणि अनेक शिल्पिनः कुर्वन्ति । अतः ईश्वरे एकत्वकल्पनमयुक्तम् । वैशेषिकाभिमतः ईश्वरो न सर्वज्ञः तथात्वे भिन्नस्वभावान्