________________
स्याद्वादबोधिनी - २८
[ ६ ]
अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्या
भिनिवेशरूपं निरूपयन्नाह
मूल श्लोक:
कर्त्तास्ति कचिज्जगतः स चैकः
,
स सर्वगः स स्ववशः स नित्यः ।
इमाः कुहेवाकविडम्बनाः स्युः,
तेषां न येषामनुशासकस्त्वम् ।। ६ ।।
अन्वय - [ हे नाथ ! ये, श्रप्रामाणिकाः ] जगतः कश्चित् कर्त्ता अस्ति । (१) स च एक:, (२) सर्वगः, (३) स्ववश:, (४) सनित्यः । तेषाम्, इमाः कुहेवाकविडम्बनाः, न स्युः येषाम् त्वम् अनुशासक: ( अस्ति ) ।
स्याद्वादबोधिनी - परे दार्शनिका ( वैशेषिका : ) इन्द्रियातीतमपीश्वरं कार्यात् कारणमनुमीयते इति न्यायेन दृश्यं जगत् प्रेक्ष्य विश्वकर्त्तारं परमात्मानं तर्कयन्ति कश्चन जगतः =संसारस्य कर्त्ता श्रस्ति कार्यत्वात् । यद् यद् कार्यं तत्-तत् कर्तृ' जन्यम् इति व्याप्तेः । यथा-घटकर्त्ता कुम्भकारः । नहि वयं विशालस्य त्रिभुवनस्य कर्त्तारः । अपरोक्षज्ञानचिकीर्षा कृतिमत्त्वं कर्त्त त्वमिति लक्षणम् ।