________________
स्याद्वादबोधिनी-२२
प्रादीपम्-दीपकादारभ्य, . प्राव्योम-आकाश-मर्यादीकृत्य, सर्व वस्तुस्वरूपं, समस्वभावं-समः तुल्यः, स्वभावःस्वरूपं यत् तत् तथा। वस्तुनः स्वरूपं तु द्रव्यपर्यायात्मकम् । अस्मिन् सन्दर्भे पूर्वधर-वाचकप्रवर श्रीउमास्वातिरप्याह
'उत्पादव्ययध्रौव्ययुक्त सत्' [श्रीतत्त्वार्थ सूत्र, पञ्चमाध्याय-सूत्र-२६] । अतः वस्तुसमस्वभावता उत्पत्तिव्यय-ध्रौव्ययोगात् भवति । एषा स्याद्वादीनृपस्य राजकीयमुद्रा अतः तां किमपि वस्तु नातिक्रामति राजभयात् । तथापि हे प्रभो ! त्वदाज्ञाद्विषतां वैशेषिकादीनां प्राकाशकालादयो नित्या एव, दीपकादिकम् अनित्यमेव क्षयिष्णुत्वात्-इति तत्त्वानभिज्ञत्वे न प्रलापाः न तु परमार्थाः ।
अत्रेदमाकूतम्-पर्यायरहितं द्रव्यं, द्रव्यरहितः पर्यायो न केनापि क्वापि दृष्टः । द्रव्यरहितं श्रीजैनाः वैशेषिकानां नित्यत्वलक्षणं नैव स्वीकुर्वन्ति वैशेषिकमतानुसारेण । यस्मिन्नुत्पत्तिविनाशौ नैव । तथा-सर्वदैव समः स एव नित्यः । जैनाः नैव स्वीकुर्वन्ति । श्रीजैनमान्यतानुसारेण 'उत्पाद-व्यय-ध्रौव्ययुक्त सत्' । अर्थात्-उत्पादव्यये सत्यपि पदार्थस्य स्वरूपविनाशाभावः नित्यत्वम् ।