________________
स्याद्वादबोधिनी-२१
[ ५ ] अथ वैशेषिकः प्रतिपादितमेकान्त-नित्यमेकान्तमनित्यं दूषयन्नाह+ मूलश्लोकःआदोपमाव्योम-समस्वभावं,
स्याद्वादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यद् ,
इति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ * अन्वयः-प्रादीपम्, प्राव्योमम्, समस्वभावम्, . (यतो हि किमपि) वस्तु स्याद्वाद-मुद्रानतिभेदि । तत् नित्यम्, एकम्, अन्यद् अनित्यम् इति त्वद् प्राज्ञाद्विषतां प्रलापाः (सन्तीति)।
ॐ स्याद्वादबोधिनी-दीपकाद् आरभ्य व्योमपर्यन्तं सर्वं वस्तु सर्वे पदार्थाः नित्यानित्यस्वभावाः सन्ति । यतो हि किमपि वस्तु स्याद्वादमर्यादां नोल्लंघयति । एवं सति प्राकाशो नित्यः, दीपकः सर्वथा अनित्य इत्यादि भगवतो जिनेन्द्रस्य [श्रीमहावीरस्य] आज्ञाद्वेषिणामेव जल्पनेति ।