SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-२३ कटस्थनित्यत्वस्वीकारे उत्पत्ति-विनाशौ नैव सम्भवतः । एवं तु उत्पादव्ययाभावे कोऽपि पदार्थः सदिति नैव कथयितु पार्यते। अतो जैनदर्शनानुसारेण नित्यत्वं नैव कूटस्थं नित्यम्, अपि तु उत्पादव्ययसहितं नित्यम् । प्रापेक्षिक नित्यत्वं स्वीकार्यमिति रहस्यम् । द्रव्य-पर्याययोः पार्थक्याभावात् । द्रव्यं परित्यज्य पर्यायो न तिष्ठति । एतावता द्रव्यप्रेक्षया पदार्थस्य नित्यत्वम्, पर्यायापेक्षया अनित्यवयम् । एवं नित्यानित्यौ सहधर्मिणौ । प्रतः आकाशोऽपि नित्याऽनित्यस्वरूपात्मकः । अन्धकारो नैव तेजसोऽभावरूपः । अपि तु तेजसः पर्यायविशेषः, प्रकाशवत् तमसोऽपि चाक्षुषप्रत्यक्षत्वात् । श्रीजैनमतानुसारेणान्धकारः पौद्गलिकः । __ वैशेषिकं प्रति जैनानां प्रश्नोऽयम्-यदि भवन्ता दीपप्रभां पौद्गलिकी स्वीकुर्वन्ति तर्हि अन्धकारं पौद्गलिकपर्यायस्वीकारे काऽऽपत्तिरिति ? नैव किमपीत्याशयः । पदार्थस्यैकान्तनित्यत्वे, अनित्यत्वे वा स्वीकृते अर्थक्रियाकारित्वं नैव संघटते। आपेक्षिक नित्यानित्यसिद्धान्तं परेऽपि वादिनो दार्शनिकाः स्वीकुर्वन्त्येव । वैशेषिकाः पृथिव्यादि पदार्थान् नित्यानित्यान् स्वीकुर्वन्ति ।
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy