________________
स्याद्वादबोधिनी-७
[ २ ] अत्र स्तुतिकारस्त्रिजगद्गुरोनिःशेषगुणस्तुति श्रद्धालुरपि सद्भूतवस्तुवादित्वाख्यं गुणविशेषणमेव वर्णयितुमात्मनोऽभिप्रायमाविष्कुर्वन्नाहॐ मूलश्लोकःअयं जनो नाथ ! तव स्तवाय ,
गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवाद
मेकं परीक्षाविधि-दुर्विदग्धः ॥२॥ * अन्वयः-हे नाथ ! अयं जनः, तव गुणान्तरेभ्यः स्पृहयालुः, एव किन्तु परीक्षाविधि-दुर्विदग्धः, (तव) स्तवाय, एक यथार्थवादं विगाहताम् । इत्यन्वयः ।।
ॐ स्याद्वादबोधिनी-नाथ-स्वामिन् ! अयं श्रीहेमचन्द्राचार्यः, तव जनः सेवकः । अतस्तव भगवतः श्रीमहावीरस्य गुणान्तरेभ्यः-अन्ये च ते गुणाः गुणान्तरम् मयूरव्यंसकादित्वात् समासः । तेभ्यः गुणान्तरेभ्यः । त्वयि अनन्ता गुणाः सन्ति । तत्रापि स्पृहयालुः श्रद्धालुरहं तथापि तान् विहाय स्तुतौ अन्यहेतुमाह-परीक्षेति । परीक्षायाः विधिः दुर्विदग्धः विदग्धः पण्डितो विज्ञो दुर्विशेषेण गुणान्तरपरीक्षणेऽतीवनिपुणोऽतस्तान् विहाय एकं