________________
स्यादवादबोधिनी-६
टिप्पणी : [१] विशेषणसङ्गत्वकारोऽयोगव्यवच्छेदबोधकः। यथा-शंखः पाण्डुर
एवेति । अयोगव्यवच्छेदस्य लक्षणं च-उद्देश्यतावच्छेदकसमानाधिकरणाभावाप्रतियोगित्वम् ।
[२] विशेष्यसङ्गतवकारोऽन्ययोगव्यवच्छेदबोधकः, यथा पार्थ एव
धनुर्धरः। अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नतादात्म्यादि व्यवच्छेदः ।
[३] पण्डा तत्त्वानुगा मोक्षे, ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा ।।
[अभिधानचिन्तामणिकोष २/२२५]
[४] अन्तराया दान-लाभ-वीर्यभोगोपभोगाः ,
हासो रत्यरती भीतिर्जुगुप्सा शोक एव च । कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा , रागो द्वषश्च नो दोषास्तेषामष्टादशाप्यमी ।।
[१/७२-७३ अभिधान चिन्तामणि कोषः]
[५] अशोकवृक्षः सुरपुष्पवृष्टिः, दिव्यध्वनिः, चामरे, प्रासनानि,
भामण्डलं, भेरी, छत्रञ्चेति प्रातिहार्यशब्दोऽप्यतिशयवाचक इति ज्ञेयम् ।