________________
स्यादवादबोधिनी-८
केवलं तव यथार्थवादम् । अर्थान् अनतिक्रम्य इति यथार्थम्-अव्ययीभावसमासः । यथार्थं चासौ वादो यथार्थवादः तम् कर्मधारयसमासः ! विगाहतामिति । गाह विलोडने यद्यपि विलोडनं विशेषेण नद्यादौ तरणकुशलेऽर्थे तथाप्युपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इति न्यायेन तत्रैव परिशील्यतां प्रार्थनायां लोट् ।
वस्तुनः लक्षणम्, वसन्ति श्रनेके धर्माः यत्र तद् वस्तु कथ्यते । वसेस्तुन् प्रत्ययः । पदार्थसार्थेऽनेके धर्माः सन्ति. तथापि नयवादमाश्रित्य परे विद्वांसो नित्यमेव वस्तु कपिलादयः । पर्यायवादमाश्रित्यैकान्तमनित्यम् - इति सौगतानुयायिनः । प्रमाणवादिना भवता तु स्याद्वादेन - नित्यानित्यादिमयं प्रतिपादितम् ।
1
नैकेन करेण करताडनं भवति । लौकिको व्यवहारः नैकेन न्यायेन प्रचलति । अतो भवत् कथनं पक्षपातशून्यम् । तेन यथार्थ वादितामेव स्तौमि । अन्यत्रापि प्रोक्तम्- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । स्वभावे परीक्षिते सति परे स्वयमेव परीक्षिता भवन्ति । यथा सूदेन एक एव तण्डुलः परीक्ष्यते न तु सर्वे । श्रतो बहुश्रुतेन तव भक्त ेन मया यथार्थवादितैव स्तुता ।