________________
स्याद्वादबोधिनी-१६८ अतः स्याद्वादः श्रेयान् । न क्वापि विरोधः ।
उक्तञ्च"इच्छन् प्रधानं सत्त्वाद्यै-विरुद्ध-गुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥ ४५ ॥ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि, नानेकान्तं प्रतिक्षिपेत् ।। ४६ ॥ प्रत्यक्षं भिन्न मात्रांशे, मेयांशो तद् विलक्षणम् । गुरुनिं वदन्न कं, नानेकान्तं प्रतिक्षिपेत् ॥ ४७ ॥ जाति-व्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्टो वा मुरारिर्वा, नानेकान्तं प्रतिक्षिपेत् ॥ ४८ ॥ अबद्धं परमार्थेन, बद्धं च व्यवहारतः। ब्र वाणो ब्रह्मवेदान्ती, नानेकान्तं प्रतिक्षिपेत् ॥ ५० ॥ ब्र वाणा भिन्न-भिन्नार्थान्, नयभेद-व्यपेक्षया । प्रतिक्षिपेयुर्नो वेदाः, स्याद्वादं सार्वतान्त्रिकम् ।। ५१ ॥
[अध्यात्मसार-४५-५१] अतः समन्वयात्मकोऽयं स्याद्वादसिद्धान्तः ।
- भाषानुवाद - अन्य दार्शनिक परस्पर ईर्ष्याभाव रखते हुए एकदूसरे के पक्ष को खण्डित करते हुए विवाद करते हैं।