________________
स्याद्वादबोधिनी-१६७
घ प्रत्ययः । सम्यग् अयति गच्छति इति समयः आगमः सिद्धान्तो वा मत्सरातीतः नैव विरुणद्धि । ततो मत्सरातीत एव विशेषः । अतएव सर्वान् नयान् अविशेषेण इच्छन् पक्षपातरहितो भवति । स एव अतिशयेन श्रेयान् । इति भावः । ___महोपाध्यायश्रीयशोविजयोऽप्याह 'नयप्रदीपे' परस्परविरुद्धा अपि सर्वे नयाः समुदिताः सम्यक्त्वं भजन्ति ।
___ एकस्य जिनसाधोर्वशत्तित्वात् यथा नानाभिप्रायभृत्यवर्गवत् । यथा धन-धान्य-भूम्याद्यर्थं परस्परं विवदमाना बहवोऽपि सम्यग्न्यायवता केनाप्युदासीनेन युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते । तथेह परस्परविरोधिनोऽपि नयान् श्रीजैनसाधुविरोधं भक्त्वा एकत्र मीलयन्ति । तथा प्रचुरविषलवा अपि प्रौढमन्त्रवादिकनिविषी कृत्यकुष्टादिरोगिणे दत्वा अमृतरूपत्वं प्रतिपद्यन्ते एवेति ।' अन्यच्च तेनैव बहुश्रुतेन अध्यात्मोपनिषदि प्रोक्तम्
“यस्य सर्वत्र समता नयेषु तनयेष्विव । तस्यानेकान्तवादस्य क्वन्यूनाधिक शेमुषी । तेन स्याद्वादमालंब्य सर्वदर्शनतुल्यताम् । मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥
[अध्यात्मोपनिषद्-६१, ७०]