SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-१६६ 卐 मूलश्लोकःअन्योऽन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् , न पक्षपाती समयस्तथा ते ॥ ३० ॥ * अन्वयः-यथा परे, प्रवादाः, अन्योऽन्यपक्ष प्रतिपक्षभावात्, मत्सरिणः, अशेषान्, नयान्, अविशेषम्, इच्छन् ते समयः तथा न पक्षपाती । + स्याद्वादबोधिनी-अन्योऽन्यमिति । पक्षश्च प्रतिपक्षश्चेति पक्षप्रतिपक्षौ, अन्योऽन्यं च पक्षप्रतिपक्षी तयोर्भावस्तस्मात् अन्योऽन्यपक्ष-प्रतिपक्षभावात् । वदनं वादः वद् धातोःघनि, उपधावृद्धौ-प्रकृष्टश्चासौ वादः प्रवादः । प्रवादश्च प्रवादश्च प्रवादश्चेति प्रवादा:-'स्वरूपाणामेकशेषएकविभक्तौ' इति परे दार्शनिकाः पक्षप्रतिपक्षाश्रयिणौ भवन्ति । स्वपक्षं साधयन्ति । युक्तया परपक्षं लुनन्ति । अतस्ते मिथो मत्सरिणो भवन्ति । ईर्ष्यालवः परोत्कर्षसहनेऽसमर्थाः दुह्यन्ति । ते-भवतः समयः-सम् पूर्वक इष् धातोः 'रुरच्' इति सूत्रेण अच् प्रत्ययः, यद्वा 'पुसि संज्ञायां घः प्रायेण' इति
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy