________________
स्याद्वादबोधिनी-१८७
अयं भावः-यथा सर्वात्मना बीजे भस्मीभूते सति महतापि प्रयासेन अनुकूलसाधनेनाऽपि अङकुरप्ररोहो नैव भवति तथैव 'कर्ममूलमिदं जगत्' यावत् कर्ममूलं तावज्जगत् । सर्वप्रकारेण तत्त्वज्ञानेन कर्मक्षये सति न पुनर्भवप्ररोहः । 'मुक्तो जीवो भवं न गच्छति' ।
श्रीपतञ्जलिरप्येवमाह योगदर्शने “सति मूले तद्विपाको जात्यायुभोगाः ।" अर्थात्-‘सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति, नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धा शालि-तण्डुला अदग्धबोजभावाः। तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोहा भवति । नापनीतक्लेशो न प्रसंख्यानदग्ध-क्लेशबीजभावो वेति । स च विपाकस्त्रिविधो जातिरायुर्भोगः इति'। अक्षपादोऽपि गौतमसूत्रे प्रोक्तवान्-'न प्रवृत्तिः प्रतिसाधनाय हीनक्लेशस्येति' । एवं शिवराजर्षिमतं दूषितम् ।
षड्जीवकायमिति । पृथिव्यप्तेजो वायु-वनस्पतित्रसलक्षणं षड्जोवकायम् इति । षण्णां जीवकायानां समाहारः इति षड्जीवकायम् द्विगुसमासः । श्रीजनसमाधानपक्षे निकायशब्दोऽपि दृश्यते । निचीयन्ते जीवाः यस्मिन् असौ निकायः । निपूर्वकचि धातोः 'निवासचितशरीरेषु' इति सूत्रे धनि वृद्धौ आदेशश्च कारस्य कारो