________________
स्याद्वादबोधिनी-१८६
रक्षणार्थं मुक्ता अपि पागच्छन्ति चेत् तदापि दोषः, नहि मुक्तात्मानः भवं भ्रमन्ति । श्रीजैनमतानुसारेण अष्टोत्तरषड्शतानि जीवाः षण्मासाष्टसमयेषु मुक्ता भवन्ति । एवं सति परिमितात्मवादे संसारः कदापि जीवैविरहितः स्यात् इति दोषः । श्राजीव-मस्करीत्यादीनां मते मुक्तोऽपि जीवः संसारे जन्म धारयतीति-'कर्माजनसंश्लेषात् संसारसमागमोऽस्तीति' मस्करिदर्शनम् । इति गोम्मटसारे जीवकाण्डे प्रतिपादितत्वात् ।
स्वामीदयानन्दमतानुसारेणापि महाकाल-पर्यन्तं मुक्तिसुखमुपभुज्य, पुनरपि संसारे जन्म लभते । स्वकीयमत पुष्टौ स्वामीदयानन्दः सत्यार्थप्रकाशे ऋग्वेदस्य, मुण्डकोपनिषदस्य च प्रमाणं प्रस्तौति । मुण्डकोपनिषद् यथा-'ते ब्रह्मलोहपरान्तकाले परामृतात् परिमुच्यन्ति सर्वे'। [मु० उ०-३/२/६]
मुक्तानां क्षीण कर्मणां न भवावतारः । यथा चोक्त श्रीतत्त्वार्थाधिगम भाष्ये
दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, न रोहति भवाङकुरः॥
[१०/७]