________________
स्यादवादबोधिनी - १६७
* अन्वयः - एकान्तवादे, सुख-दुःखभोगौ, न पुण्य-पापे नबन्ध-मोक्षौ च न ( घटते ) । परैः, दुर्नीतिवादव्यसनासिना, एवम् अशेषम् अपि, जगत्, विलुप्तम् ।
5 स्याद्वादबोधिनी - नैकान्तवाद इति । एकान्तवादे सुख-दुःखभोगौ न स्याताम् । कुतः ? नित्यस्य विनाशा - भावात् । यावत् सुखं वा दुःखं वा न विनश्यति तावत् परस्य अवसर एव नास्ति । अतः कथंचिन्नित्यमिति स्वलक्षणे निवेशनीयम् । अस्मिन् मते न दोषः - भोगौ पर्यायेण भवतः न तु युगपद् । सुखोत्पत्तौ दुःखभोगे वा किम् निमित्तम् ? कर्माणि । कानि च तानि सातावेदनीयानि सातावेदनीयानि चेति । यत्र यत्र पुण्यं तत्र तत्र सातावेदनीयम् । यत्र सातावेदनीयस्य उदयस्तत्र सुखानुभवः । फलं दत्वा कर्माणि निवर्त्तन्ते । एवं दुःखभोगविषयेऽपि । अतः कथंचित् (स्यात्) इति पदं स्वीकार्यम् । पुण्य-पापेऽपि तथा बोध्यम् । बन्ध-मोक्षविषयेऽपि उभौ सापेक्षिकौ । कियन्तो हि पदार्थाः सापेक्षधर्माण: पिता पुत्रः, गुरुः शिष्यः तथैव पूर्वं बन्धस्ततो मोक्षः । क्रमेण तौ भाविनौ न तु समकालभाविनौ ।
भवतामपि लक्षणे स्यात् पदनिवेशे कृते न दोषः । यत्र यत्र कषायस्तत्र तत्र बन्धः । कषायरहिते भगवति