________________
स्याद्वादबोधिनी-१६० सति शशविषाणादयोऽपि अर्थक्रियाकारिता सम्पादयितु प्रयतेरन् । असत् पदार्थस्य शशविषाणस्याभेदात् ।
अनित्यवादिनां मते सर्वे पदार्थाः क्षणिकाः सद्रूपात् । अर्थक्रियाकारित्वमेव सतो लक्षणम् । अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधाद् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात्, ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्त्तयेदिति क्षणिकसिद्धिः । नित्यः पदार्थः निजार्थक्रियाकारिता क्रमशः सम्पादयितु न समर्थः, पूर्वार्थ क्रियाकरण स्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमशः प्रवृत्तिदर्शनात् । यदि पूर्ववत्तिकियाः करणस्वभावस्य विनाशः नैव स्वीक्रियते, तदा तु पूर्ववत्ति कार्यकारण क्रियायाः अनन्तत्व(अविरतत्व) प्रसंगो नाम दोषः। यद्य वमुच्यते यत् पूर्वकार्योत्पादन क्रियाकरणस्वभाव विनाशेऽपि पदार्थस्यनित्यताक्षुण्णेति नैतदुपयुज्यते । यतो हि पदार्थानां क्रमशः अवस्थात्मकाभावात् अनित्यत्वं स्फुटमेव ।
अथ नित्योऽपि क्रमवत्तिनं सहकारिकारणमर्थमुदीक्षमाणरतावदासीत् पश्चात् तामादाय क्रमशः कायं कुर्यादिति चेत् न। सहकारिकारणस्य नित्यऽकिञ्चित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्यन नित्योऽर्थोऽर्थ क्रियाः कुरुते प्रत्यक्षविरोधात् ।