________________
स्याद्वादबोधिनी - १५५
'स्याद्वाद' इति समस्तं पदं न तु व्यस्तम् । स्याच्चासौ वादः स्याद्वादः । 'सह सुपा' इत्यधिकृतं सूत्रं विधिसूत्रं तेन सुबन्तेन सह सुबन्तस्य समासो न तु तिङा । यथा - श्रस्ति क्षीरा गौरित्यत्र बहुव्रीहिसमासार्थम् श्रस्तीति विभक्ति प्रतिरूपकं सदृशमव्ययं तथैव प्रकृतेऽनेकान्तवाचकं स्यादिति पदमव्ययम् । ते 'अनेकान्तवादः' इत्यर्थः ।
अनेकान्तसूचकस्य 'स्याद्' इति पदस्य प्रष्टासु पदेषु योग:, तेन
( १ ) प्रत्येकवस्तुनो विनाशित्वात् स्याद् अनित्यत्वम् ।
( २ ) प्रत्येकस्य वस्तुनः सामान्यरूपत्वात् स्यात् सामान्यम्, विशेषरूपत्वात् स्याद् विशेषत्वम् ।
(३) प्रत्येकपदार्थस्य वक्तव्यत्वात् स्यात् वाच्यत्वम्, अवाच्यत्वात् स्याद् वाच्यत्वम् अवक्तव्यत्वम् वा । (४) प्रत्येकपदार्थस्य अस्तिरूपत्वात् स्यात् सत् नास्ति - रूपत्वात् स्याद् असत् । एवं चतुर्षु वादेषु स्याद्वादस्य समावेशः । प्रत्येक पदार्थ: द्रव्यार्थिकनयेन नित्य - सामान्यावाच्या सद्रूपः स्वीकरणीय इति युक्तियुक्तम् ।