________________
स्याद्वादबोधिनी-१५४
[ २५ ] अथानेकान्तवाद-स्याद्वादस्य सर्वद्रव्य-पर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगवतस्तत्त्वामृतरसास्वादसौहित्यमाहॐ मूलश्लोकःस्यान्नाशि नित्यं सदृशं विरूपं ,
वाच्यं न वाच्यं सदसत् तदेव । विपश्चितां नाथ ! निपीततत्त्व
सुधोद्गतोद्गार - परम्परेयम् ॥ २५ ॥ * अन्वयः-हे नाथ ! (भवता) विपश्चितां (समाजे) स्यान्नाशि, स्यात् नित्यम्, स्यात् सदृशम्, स्यात् विरूपम्, स्यात् वाच्यम्, स्यात् न वाच्यम्, स्यात् सद्, स्याद् असत्, एवं-इयं निपीततत्त्व-सुधोद्गतोद्गारपरम्परा (प्रतिपादिता)।
+ स्याद्वादबोधिनी-स्यानाशीति । परे विद्वांसः स्याद् घटितत्त्वात् स्याद्वादं संशयवादमाहुस्तन् न युक्तिसंगतम् । इह 'स्याद्' इति पदं नैव सन्देहवाचि अपितु विभक्तिप्रतिकूलकमव्ययम् । यत्तु सति सन्देहे स्यात्, संभवेत् इति प्रयोगः प्रकृते तु न तथा ।