________________
स्याद्वादबोधिनी-१४७
[ २४ ] ये विरुद्धधर्माध्यासितं वस्तु पश्यन्तं एकान्तवादिनोऽबुधरूपा विरोधमुद्भावयन्ति तेषां प्रमाणमार्गात्च्यवनमाह卐 मूलश्लोकःउपाधिभेदोपहितं विरुद्धम्,
नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीताः,
जडास्तमेकान्तहताः पतन्ति ॥ २४ ॥ * अन्वयः-अर्थेषु उपाधिभेदोपहितम् असत्त्वं सद्वाच्यते च न विरुद्धम् । विरोधभीताः एकान्तहताः अप्रबुध्यैव, पतन्ति इति ।
+ स्याद्वादबोधिनी-उपाधिभेदेति-यथा चेतनाचेतनेषु पदार्थेषु अस्तित्वं नास्तित्वं तथा च प्रवक्तव्यं न विरुद्धम् । तथा विरोध-निषेधरूपस्यावक्तव्यस्य अस्तित्वं नास्तित्वं नैव विरुध्यते । अथवा नास्ति अवक्तव्येन स कोऽपि विरोधोऽतोऽवक्तव्यस्यास्तित्वनास्तित्वाभ्यामपि नैव विरोधः । अतएवास्तित्व-नास्तित्वावक्तव्येषु भङ्गत्रयेषु पारस्परिक-विरोधाभावात् सप्तभङ्गानि विरोधितोपलक्ष्यते ।