________________
स्याद्वादबोधिनी-१४०
(४) स्यादवक्तव्यमेवेतियुगपद् विधिनिषेध कल्पनया
चतुर्थो भङ्गः । (५) स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया ___ युगपद् विधिनिषेधकल्पनया च पञ्चमो भङ्गः । (६) स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया
युगपद् विधिनिषेधकल्पनया च षष्ठो भङ्गः। (७) स्यादस्त्येव स्यान्नास्त्येव स्याद् वक्तव्यमेवेति
क्रमतो विधि-निषेधकल्पनया युगपद्विधि
निषेधकल्पनया च सप्तमो भङ्गः। प्रमाणनयवाक्ये च क्रमशः सकलादेशविकलादेशाभ्यां शब्दाभ्यां श्रीजनदर्शने व्यवहृते स्तः । सकलादेशाः विकलादेशाश्च प्रमाणसप्तभङ्गात्, नयसप्तभङ्गाच्च पृथक् पृथक् सप्तसु वाक्येषु विभक्ताः समुल्लसन्ति इति मनसि निधाय मूले प्रोक्तम्-प्रादेशभेदोदितसप्तभङ्गमिति ।। २३ ।।
- भाषानुवाद - पदार्थों में अनन्त धर्मों की सत्ता है। इस बात को सप्तभङ्गी की प्ररूपणा के माध्यम से कलिकालसर्वज्ञ श्री हेमचन्द्राचार्य महाराजश्री सर्वज्ञविभु श्री अरिहन्तदेव के निरतिशय वचनातिशय की स्तुति करते हुए कहते हैं