________________
स्याद्वादबोधिनी-१३६
नान्यमतावलम्बिनः प्रतिपद्यन्ते ? बुध्यन्ते यथार्थ वस्तुतत्त्वमिति बुधाः। सप्तभङ्गनयतत्त्वं सूक्ष्मतः नैसर्गिकतया वेदिन एवोत्कृष्टाः विद्वान्सः वेत्तुम् अर्हन्ति । न तु अविद्या वासना वासिताः कुण्ठितबुद्धयः । अनादिकालतोऽविद्यासंस्कारात् मिथ्यादार्शनिकानां बुधरूपस्वाभावान् नैवाधिगमः। तथा च प्रोक्तमागमे
सदसदविसेसणा उ भवहेउजहिटिठनोवलंभाउ । णाणफलाभावा उ मिच्छादिहिस्स अण्णाणं ॥ संस्कृतच्छायासदसद्विशेषणतः भवहेतु यथास्थितोपलम्भात् । ज्ञानफलावान् मिथ्यादृष्टे - रज्ञानम् ॥
[विशेषावश्यकसूत्रे-११५] अथ केऽमी सप्तभङ्गाः ? तत्रोच्यते तावत्(१) स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो
भङ्गः । (२) स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो
भङ्गः । (३) स्यादस्त्येव स्यानास्त्येवेति विधि - निषेधयुत
कल्पनया तृतीयो भङ्गः ।