________________
स्याद्वादबोधिनी-१३४
अव्ययम् । क्रियावाचकत्वे समासो न स्यात् । नाम नाम्नासमस्यते न तु तिङा । तथैव पदार्थोपलब्धिः । घटो द्रव्यम्, पृथिवी मृद्विकारः, जलाधारः। घटते कर्मणि परप्रेरितप्रवर्तते इति घटः। उत्पद्यते तिष्ठति प्रतिकूलदण्डपाषाणादिसंयोगेन विनश्यते । स्वोपादाने कपाले उत्पद्यते, तत्रैव विलीयते । विशालदृश । विवेचने कृते सर्व पदार्थास्तथा। 'न हि गौः गौरेव सर्वान् प्रति' इति भाष्यकारः पतञ्जलिः । धार्मिका एव गाः पूजयन्ति सम्मानयन्ति, न तु यवनास्ते तु भक्षयन्ति, व्याघ्रादयोऽपि । एवं स्थालीपुलाकन्यायेनैका रीतिः प्रदर्शिता। पूर्वोक्तप्रकारव्यतिरेकेन वस्तुस्वरूपं महतामपि प्रयासेन भारत्यापि प्रतिपादयितुमशक्यमन्यस्य तु का कथा । यथा प्ररूपिता भगवता श्रोजिनेश्वरेण प्रमाणेन न्यायेन युक्त्यां तदेव परमार्थभूतम् ।
पदार्थेषु अनन्तधर्मस्वीकारं विना पदार्थे पदार्थत्वं न सिद्धयति । यो हि अनन्तधर्मात्मको न, नैव स सत् यथाप्राकाशः । अत एव जीवाऽजीव-धर्माधर्माकाशकालादिसमस्तद्रव्येषु अनन्तधर्मात्मको न, नैव स सत्-यथा-आकाशः । प्रत एव जीवाऽजीव-धर्माधर्माकाशकालादि-समस्त-द्रव्येषु अनन्तधर्माः स्वीकरणीया इति श्रीजैनसिद्धान्तः ।। २२ ।।