SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-१३३ ॐ मूलश्लोकःअनन्तधर्मात्मकमेव तत्त्वं , अतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि कुरङ्ग - संत्रासनसिंहनादाः ॥ २२ ॥ * अन्वयः-तत्त्वम्, अनेक-धर्मात्मकम्, एव अतः, अन्यथा, सत्त्वम्, असूपपादम् । इति ते प्रमाणानि अपि, कुवादिकुरङ्गसंत्रासन सिंहनादाः (सन्ति) । + स्याद्वादबोधिनी-तस्य भावः तत्त्वम् । बुद्धिस्थपरामर्शको हि तत् शब्दः । स च कर्तु रधीनः । यावन्तमिच्छति तावान् गृह णीयात् । पतञ्जलिनापि प्रोक्त-वस्तु वा पदार्थसार्थो वा अनन्तधर्माः। नित्यानित्यादयः एककालावच्छेदेन वसन्ति यस्मिन् तत् वस्तु । स पदार्थः । अनेकधर्मात्मकम् - अनेके धर्माः जीवाऽजीवादयो नित्यत्वम् अनित्यत्वम् अपेक्षारूपेण कालादिभेदेन अस्तित्वं नास्तित्वमित्यादयो यत्र तत् अनेक धर्मात्मकम् - बहुव्रीहिसमासः । अत्र प्रात्मशब्दः स्वरूपपरः शब्दशक्तिस्वभावात् । श्रीजैनदर्शनमते सर्वं स्याद्वादात्मकम् । स्यादिति विभक्तिप्रतिरूपकम्
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy