________________
स्याद्वादबोधिनी-१२४
यथा सुरायां मादकतोत्पद्यते तथा प्रकृतेऽपि'-तदप्यसंगतम् । सुरोत्पादकेषु मधूककुसुमगुडादिषु सूक्ष्म तद्विद्यते तेषां समवाये व्याप्यमाना सा प्रतीयते । अतएव प्रतिपरिश्रमेण श्रान्तेषु घोटकेषु तैः भुज्यमाना मधूकादयः सद्यः श्रमं नुदन्ति । भूतादिपञ्चसु कुत्रापि स्वल्पमपि चैतन्य नैव लभ्यते येन समुदितेषु प्रादुर्भाव्यमाना कल्पेत । अपरञ्च व्याप्तिमाश्रित्य भवतानुमानं कृतं तदा प्रतिज्ञाहानिः-अनुमानं प्रत्यक्षाद् भिद्यते । धूमेन लिङ्गन अहमपि पावकमनुमिनोमि-इति प्रतीतिर्जायते, न प्रत्यक्षामि-इति ।
अन्यदपि दूषणम्-चेष्टा शून्या सुषुप्तिः कथ्यते । प्रगाढनिद्रायां सर्वारिण-इन्द्रियाणि स्वान्-स्वान् विषयान् विहाय स्वरूपमात्रेणावतिष्ठन्ते । स्वप्नान्तरं कथमवबोधो भवताम् ? नायं दोषो, ज्ञानविषये-द्विधा नियमः । पालयविज्ञानधारा प्रवृत्तिविज्ञानधारा जाग्रदवस्थायां प्रवृत्तिविज्ञानधारा, स्वापे पालयविज्ञानधारा तयोः स्वापानन्तरं सर्व सम्पद्यते-इत्यपि नैव युक्तिसंगतम् । यत्र यत्र विज्ञानं तत्र तत्र विषयावभासः । अयं नियमः-तस्यां दशायां कस्यापि विषयस्य अवबोधो न जायते । सर्वाकल्पना विफला। अतश्चेतनाशक्तिर्न भौतिकविकाररूपा अपि । 'प्रात्मा' स्वतन्त्रः पदार्थो मन्तव्यः ।। २० ।।