________________
स्याद्वादबोधिनी - १२३
तेन स्वमनुमाय परार्थमपि स बोधयितुं क्षमः तथा भवान् । यत् प्रत्यक्षं तदेव परप्रत्ययार्थं बोधयितुं त्वयि शक्तिरस्ति ।
अपरश्च तव पूर्वजाः प्रपितामहादयः श्रासन् न वा । यदि नासन् तव पितामहः पिता वा जलवत् मेघात् पतितः । श्रासन् चेत् कथं ज्ञायते ? प्रत्यक्षज्ञानाभावात् । अनुमाने स्वीकृते तु पितापदेन व्यवह्रियते । अतः प्रमितिकरणात् अनुमानं प्रमाणम् ।
धनिनः केचन दीनाः, केचन रोगिणः, स्वस्थाः तस्य किं
अस्मिन् जगति केचन दातारः परे भिक्षुकाः । कारणम् ? धर्मात् सुखम्, अधर्मात् दुःखम् । यो हि जन्मान्तरे विपुलधर्मवान् स सर्वोऽपि प्रागामिभवेऽतिशयेन सुखभाग् भवतीति व्याप्तिः । तथा प्रयं पुरुषो जन्मान्तरोय विशिष्टपुण्यवान् विनाऽन्तरायं सदैव सुखानुभवात् ।
"
चार्वाकमते चैतन्यम् ग्रात्मा इति न किन्तु शरीरमेव तर्हि पञ्चभूतसमुदायजन्यं शरीरं तत्र ज्ञानाऽभावेन 'अहं वेद्मि' इति कथं प्रत्ययः, एवं यत्र यत्र पञ्चभूतसमुदायजन्यं शरोरं तत्र ज्ञानाऽभावेन 'अहं वेदिम' इति कथं प्रत्ययः, एवम् 'यत्र यत्र पञ्चभूतं तत्र तत्र चैतन्यमुत्पद्यते