________________
स्याद्वादबोधिनी-१२२ परप्रत्ययार्थं स्वशङ्कानिरासार्थमनुमानं स्वीकार्यम् । तेनाभीष्टसिद्धिः किन्तु चार्वाकस्तु एकम् प्रत्यक्षं प्रमाणं मनुते । 'नहि एकेन चक्रेण रथो गच्छति'। न चापि केवलेन कारणेन कार्यस्य सिद्धिदृष्टा। चारु मनोज्ञं यथा स्यात् तथा प्रावक्ति इति चार्वाकः । अण्प्रत्यये यणादेशे 'यजोः कुधिण्यतोः' इति ककारः । यो दृश्यमानं प्ररूपयति स चार्वाकः कथ्यते । गतं, भाविनं च केन दृष्टं यत् प्रत्यक्षं तदेव सत् । तेन स चार्वाकः । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तदेव परमार्थस्तन्मते न तु अतिक्रान्तं नापि भावि, अतो नास्ति परत्र परलोके मतिर्यस्येति नास्तिकः । 'अस्ति नास्ति दृष्टं मतिः' इति सूत्रेण निपातनात नास्तिकः । यदि अनुमानं प्रमाणं बौद्धो नैवाङ्गीकरोति तर्हि तत् कृते प्रश्न:
भवतां मते अदृष्टा देशान्तरे वर्तमाना पदार्थाः सन्ति न वा। यदि न सन्ति तर्हि कथमुपलभ्यन्ते ? सन्ति चेत्, कथं भवता ज्ञायन्ते । अनुमानवादिना तु अदृष्टमपि कार्यमनुमीयते। यद्-यद् कार्य तत्-तत् कर्तृजन्यं यथा पुरोवत्तिघट-पटादिरूपं कार्यम् कुम्भकारेण तन्तुवायेन जन्यमानं चाक्षुषप्रत्यक्षविषयमपि तथैव प्रचाक्षुषमपि क्वापि कार्यस्योत्पत्ति स्वयमेव दृश्यते । कार्यत्वाऽविशेषात्