________________
स्याद्वादबोधिनी-११७
परिपक्वधिया विमर्श कृते सति द्वेऽपि एका एव । यतो बौद्धमते सर्वे पदार्थाः क्षणिका एव तदा वासनया किमपराद्धम् ? सा कथं न तथा। साऽपि क्षणिकैव क्षणिकत्वादविशेषात् । दीपकलिकादृष्टान्तेन प्ररूपिता सन्तानपरम्परापि क्षणिकव। न हि शब्दभेदेनार्थभेदो भवति । घटः कथ्यतां कलशः कुम्भो वेति । अतः यथा बीजादिब्वात्मानमन्तरेणापि प्रतिनियमेन कार्यं तदुत्पत्तिश्च क्रमेण भवति, तथा प्रकृतेऽपि परलोकगामिनमेकं विनापि कार्यकारणभावस्य नियामकत्वात् प्रतिनियतमेव फलं क्लेशकर्मसंस्कृतस्य संतानस्याविच्छेदेन प्रवर्त्तनात् परलोके फलप्रतिलम्भोऽभिधीयते । इति नाकृताभ्यागमो न कृतप्रणाशोपि बाधकम् ।
[बोधिचर्यावतार पंजिका पृ. ४७३] बौद्धरपि एकान्तक्षणिकवादमपहाय पूर्वोक्तदोषनिरसनाय परवादिभिरिव क्वचिन्नित्यत्वम्, क्वचिदनित्यत्वं स्वीकार्यम् । अर्थात् स्याद्वाद एव शरणम् । यथा जलपोतमन्तरा सागरोपरि उड्डीयमानः पक्षी नान्यत्र स्थानं लभते । जगति विषमता सर्वसम्मता। तस्याः केनापि कारणेन भाव्यम्, अन्यथैकत्व दोषापत्तिः । नीलं घटमानयेति प्रोक्त यं कमपि घटानयने प्रयोक्त रभिप्रायो न सिद्धयति । गुणभेदेन गुणिनो भिद्यन्ते एव । गुणा हि भेदकाः प्रोक्ताः ।